885 वैतण्डिकखण्डनम्

मूलम्

सौगताः सर्वसिद्धान्तखण्डकाः सून्यतत्पराः।तेषां वितण्डा ब्रह्मास्त्रं तस्या गतिरुदीक्ष्यताम्॥

मूलम्

वितण्डवाद्ययमसौ ये माध्यमिकनामकः।स्वपक्षस्थापनाहीनः परपक्षविभेदकः॥

मूलम्

सोऽनुयुक्तः फलं किंचिद्यदिच प्रतिपद्यते।सोऽस्य पक्षो भवेत्तेन वैतण्डिककथा हता॥

मूलम्

अथ न प्रतिपद्येत नायं लौकिक इष्यते।नवा परीक्षकः स्यादित्यापद्येत स बुद्धिमान्॥

मूलम्

प्रयोजनमनुद्दिश्य न मन्तोऽपि प्रवर्तते।न तिश्चामपि जगत्यफला दृश्यते क्रिया॥

मूलम्

परपक्षपरतिक्षेपज्ञानं चेत्प्रयोजनम्।ब्रवीत्यसौ तथाऽप्येतत्तादृगेव भविष्यति॥

मूलम्

यो ज्ञायते यो वेत्ति येन च ज्ञाप्यते तथा।यदपि ज्ञायते तच्चेत् प्रतिपद्येत को हतः॥

मूलम्

सर्वथा सदुपायानां वादमार्गः प्रवर्तते।अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः॥

मूलम्

अथ शून्याद्वैतवादमानिनो हीत्थमभ्यधुः।अवसम्ब्य भरं शून्यो कृतार्थाः सुखमास्महे॥

मूलम्

ये तु तत्त्वं विनिर्णेतुमिच्छन्ति स्वव्यवस्थया।भ्राम्यन्ति, तेषु कृपया कृतार्थास्ते भवन्त्विति॥

मूलम्

अपनेतुं भ्रमं चापि पारार्थ्यात्प्रयतामहे।दया हि स्वार्थनपेक्षपरदुःखासहिष्णुता॥

मूलम्

यदि काचित्प्रतिज्ञा स्यात्तदा दोषविचारणा।नास्ति प्रतिज्ञा काचिन्नः तस्मान्नैवास्ति दूषणम्॥

टीका

मा. वृ.[4]

मूलम्

नातः पर्युयोगार्हाः कथंचिदपि वादिभिः।इति शून्यैकान्तवादः तत्र स्यादिदमुत्तकम्॥

मूलम्

मर्यादास्थापनार्थं च मानतर्कौ समुत्थितौ।सिंहारण्यवदन्योन्यं गुप्तौ तौ स्वान्यसाधकौ॥

टीका

त. टी.[86]

मूलम्

महीमिवच मर्यादां अनधिष्ठाय शास्वतीम्।पदन्यासो न चोराणां प्रच्छन्नप्रकटात्मनाम्॥

मूलम्

परमर्यादया ब्रूमः परव्याहतिमित्यसत्।स्वव्याघातादिभङ्गानां परानङ्गीकृतिर्यतः॥

मूलम्

यद्यस्येष्टं तत्तु तस्य प्रयोजनमिति स्थितम्।सर्वभूतानुग्रहोऽपि कथं न स्यात्प्रयोजनम्॥

मूलम्

सोऽस्य पक्षः स सिद्धान्तः वैतण्डिककथा वृथा।सर्वशून्यविदां सर्वा धीर्मृषेत्यपि धीर्मृषा॥

मूलम्

तस्मान्निषेधसिद्धान्तः स्वयमेव विहन्यते।विश्वखण्डनसिद्धान्तोऽप्येवमेव हि खण्डितः॥

मूलम्

तदर्वाग्भिः तथा प्राग्भिः यथेष्टं मतमास्थितैः।प्रणिन्ये बुहुधा तैस्तैः ग्रन्थरूपविचारणा॥

मूलम्

यथालोकं यथावेदं वैदिके लौकिकेऽपिवा।यो वक्ता स परिग्राह्यः प्राक्तनोऽद्यतनोऽपिवा॥

मूलम्

एवं सामान्यतस्तत्त्वविचारसरणिस्त्वियम्।न निर्गुणं न निर्दोषं जगत्यामस्ति किंचन॥