मूलम्
अज्ञानादिह संसारं ज्ञानान्मोक्षं च ये विदुः।सर्वे ते पर्यवस्यन्ति प्रायस्सौगतसोदरः॥
मूलम्
अविवेकेन तादात्म्यं पुंप्रकृत्योर्न वस्तुसत्।सास्मितेत्युच्यते क्लेशः सर्वानर्थस्य कारणम्॥
मूलम्
येषां प्रपञ्चः तन्मूलः बुद्धिमूलस्तु वस्तुतः।विज्ञानवादिसिद्धान्ताविशेषो वस्तुवादिनाम्॥
मूलम्
संसारमोक्षयोः कर्म कारणं ये विदुः परे।प्रायो भौतिकसिद्धान्तवादस्तेषां महात्मनाम्॥
मूलम्
ये सर्वेश्वरसंकल्पायत्तं तदुभयं विदुः।संकल्पो बुद्धिरेवेति दुर्लङ्घा बुद्धवाहुरा॥
मूलम्
यद्यत्राज्ञानशब्देन चान्यथाज्ञानमुच्यते।विज्ञानवादस्स्यात्तस्मात् ज्ञानाभावस्स उच्यते॥
मूलम्
तस्यापि तच्छरूपत्वे तुच्छं चापि जगत्भवेत्।भावान्तराभाववादः स्वीकृतः कपिलादिभिः॥
मूलम्
अभावोऽप्यर्थ एवेष्टः तन्मामांसकतार्किकैः।अतएवच ते प्राहुरभावं मोक्षसाधनम्॥
मूलम्
अनिर्वाच्यविदश्चातः भावाज्ञानविदोऽभवन्।अज्ञानं चेदसत्ख्यातिः ज्ञानाभावोऽथवा पुनः॥
मूलम्
दुरुद्धरा तुच्छता स्याज्जगतस्त्विति बिम्भयति।भावान्तराभाववादं अतः केचित्समाश्रिताः॥
मूलम्
अन्ये तार्किकसिद्धान्तं प्रायशस्समाशिश्रयन्।यस्मात्सौगतसिद्धान्तस्सोऽसत्ख्यातौ प्रतिष्ठितः॥