मूलम्
ये तु स्वाभाविकं भेदाभेदामिच्छन्ति शास्त्रतः।तेषां विरोधो नास्त्येव वस्तु नानात्मकं यतः॥
मूलम्
यादृशं ज्ञायते वस्तु यदि तादृशमेव तत्।विज्ञानवादसिद्धान्तोऽप्येवमेव हि वस्तुतः॥
मूलम्
प्रातिभासितसिद्धान्तोऽप्यसावेव हि वस्तुतः।स चानेकान्तवादोऽपि भवेत्पर्यायतो विदाम्॥