882 मीमांसकयुक्तिः

मूलम्

पूर्वमीमांसका वेदापौरुषेयैकदृष्टयः।प्रायो लौकायतं मार्गं संश्रिता इति कीर्तीताः॥

मूलम्

प्रायेणैव हि मीमांसा लोके लोकायतीकृता।तामास्तिकपथे कर्तृमयं यत्नः कृतो मया॥

मूलम्

इति वार्तिककारोऽपि प्राहारम्भे कुमारीलः।अथाप्यपयशस्तेषामद्यापि न हि शाम्यति॥

मूलम्

विग्रहो हविरादानं युगपत्कर्मसन्निधिः।प्रीतिः फलप्रदानं च देवतानां न विद्यते॥

टीका

स. सि.[3-68]

मूलम्

देवानचेतनानेवं ये विदुस्तान्महाशयान्।अर्धलोकायातानाहुरत एवेतरे बुधाः॥

मूलम्

सर्वेषामपि शब्दानामाहुः सर्वार्थशक्तताम्।सर्वेषां विदुरर्थानां अशेषपदशक्यताम्॥

टीका

श्लोक.[202]

मूलम्

सर्वासामपि जातीनां स्याद्यावद्व्यक्तिगामिता।व्यक्तीनामपि सर्वासां सर्वजात्यनुयोगिता॥

मूलम्

एष सार्वात्म्यसिद्धान्तो नैराम्यान्न विशिष्यते।सामान्यलक्षणे सैषा विश्रान्तिर्वा स्वलक्षणे॥

टीका

श्लोक.[331]

मूलम्

कर्मैकं बुद्धिरप्येका जगत्येकास्सितो गुणः।वर्णौप्येको गकारादिः सर्वैक्यं किं न रोचते॥

मूलम्

तदानीमपि दुर्मोचा भवेत्सौगतवागुरा।विशेषवादस्सामान्यवादो वा दृष्टिभेदतः॥