881 वैशेषिकयुक्तिः

मूलम्

वैशेषिकाद्या विज्ञानवादोद्धूननतत्पराः।क्षणवादे निमग्नास्स्युः प्रतिक्षणविशेषतः॥

मूलम्

यद्याप्यात्मादयो नित्याः पदार्थाः स्वीकृताः पुनः।तथापि धर्माः तेषां स्युः क्षणिका इति तन्मतम्॥

मूलम्

धर्मधर्म्यैक्यपक्षे तु क्षणवादः प्रतिष्ठितः।पीलुपाके तु विस्पष्टः क्षणसिद्धान्तसङ्ग्रहः॥

मूलम्

भूतचैतन्यभङ्गाय पीलुपाकस्समाश्रितः।प्रतिक्षणं देहभेदे स्मरणं नोपपद्यते॥

मूलम्

क्षणभङ्गोपरोधाय पिठरे पाक आदृते।भूतचैतन्यवादस्तु तदानीं स्याद्दुरुद्धरः॥

मूलम्

अत एव प्रसिद्धास्तेऽप्यर्धवैनाशिका इति।निरन्वयोत्पत्तिनाशाधारा हि क्षणभङ्गिता॥