मूलम्
अत्र केचन तत्त्वज्ञाः युक्तिज्ञपरिशीलनात्।अभिप्रायमिमं कंचिद्विशदीर्कुर्वते यथा॥
मूलम्
आदौ सांख्याः सर्ववस्तुनित्यतासाधनोद्यताः।क्षणभङ्गं निरुन्धन्ति युक्तिजालैर्मनोहरैः॥
मूलम्
गत्वागत्वाऽथ ते योगाचारसिद्धान्तसागरे।निमज्जन्ति यतो व्यक्तिरुत्पत्तिश्चाविलक्षणा॥
मूलम्
उत्पत्तिनाशयोरस्तिनास्त्योरप्येकता मता।विज्ञानवादसिद्धान्तः पर्यायेणायमेव हि॥
मूलम्
सांख्याः स्वभावसिद्धान्तमङ्गीकुर्वन्ति भूयसा।अर्धं तेनाकस्मिकतावादमेते समाश्रिताः॥