मूलम्
विचारो द्विविधो लोके फलभेदाद्व्यवस्थितः ।तत्त्वनिर्णयसिद्ध्यर्थः विजयैकार्थ इत्यपि ॥
मूलम्
तत्राद्यो द्विविधः पूर्वः उपदेशात्मको मतः ।द्वितीयो न्यायमूर्तिस्स्याद्यो वादो गुरुशिष्ययोः ॥
मूलम्
अनन्तरोपि द्विविधः विजिगीषुकथात्मकः ।जल्प एको वितण्डा तु द्वितीय इति निर्णयः ॥
मूलम्
वादिनिग्रह एवात्र नैव तत्त्वविनिर्णयः ।इति जानन्तोऽपि कथां वितण्डामेव केवलाम् ॥
मूलम्
आश्रित्य परपक्षास्थान् खण्डयन्ति विपश्चितः ।वितण्डामेव च कथामाश्रित्य परखण्डनम् ॥
मूलम्
वक्तव्यमिति हि प्राह श्रिहर्षो विश्वखण्डकः।अद्वैतसिद्धावपि च मधुहन्तृसरस्वती॥
मूलम्
वादजल्पवितण्डानां कथामन्यतमामपि।आश्रित्य परपक्षाणां प्रतिक्षेपं ब्रवीत्यपि॥
मूलम्
एवंच वादिविजयमात्रेणैव समीहितम्।सिशाधयिषतीत्येव कुतस्तत्त्वाविनिर्णयः॥
मूलम्
यद्यपि न्यायसिद्धान्ते ताभ्यां निग्रह ईप्सितः।न तं तत्त्वव्यवस्थायां प्रमाणं बहवो विदुः॥
मूलम्
तदेतस्मात्संप्रदायसंस्कारो मूलकारणम्।विचारविप्लवस्सर्वः ताड्यते बाह्यडिण्डिमः॥