877 वेदनिन्दाविचारः

मूलम्

पार्थसारथिमिश्राणां या पुनश्शास्त्रदीपिका ।तस्यां ज्ञेयं पद्यमिदं स्फुटं बह्वर्थगार्भितम् ॥

मूलम्

प्रबोधचन्द्रोदयेऽपि कृष्णमिश्रविनिर्मिते ।पौर्वापर्यविचारस्तु तिष्ठत्वत्र न चादरः ॥

मूलम्

प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः ।वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते ॥

टीका

प्र. चं.[2-4]

मूलम्

इति, तैस्तु पुराणस्थं नूनं नालोचितं वचः ।तदत्र लिख्यते किंचिन्मध्यस्थैरवधार्यताम् ॥

टीका

विष्णु.[3-18]

मूलम्

नैतद्युक्तिसहं वाक्यं हिंसा धर्माय चेष्यते ।हवींष्यनलदग्धानि फलायेत्यर्भकोदितम् ॥

मूलम्

यज्ञैरनैकैर्देवत्वं अवाप्येन्द्रेण भुज्यते ।शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः ॥

मूलम्

निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते ।स्वपिता यजमानेन किंनु तस्मान्न हन्यते ॥

मूलम्

तृप्तये जायते पुंसः भुक्तमन्येन चेत्ततः ।दद्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥

मूलम्

एवं विनिन्दां वेदानां यथा तैर्विनिवार्यते ।तथोपनिषदां निन्दा न निवार्येत किं परैः ॥