मूलम्
इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते ।उपलम्भानुसारेण व्यवस्थासिद्धिरीदृशी ॥
टीका
श्लोक.[75]
मूलम्
सर्वदा चापि पुरुषाः प्रायेणानृतवादिनः ।यथाऽद्यत्वे न विस्रम्भः तथाऽतीतार्थकीर्तने ॥
टीका
श्लोक.[88]
मूलम्
नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ।वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ॥
टीका
तन्त्र.[178]
मूलम्
इति च श्रूयते श्लोकवार्तिके तन्त्रवार्तिके ।कुमारिलमहाप्राज्ञमुखाल्लोकोत्तरं वचः ॥
मूलम्
सुगतो यदि सर्वज्ञः कपिलो नेति प्रमा ।तावुभौ यदि सर्वज्ञौ मतिभेदः कथं तयोः ॥
टीका
आ. ध. व्या.[1-1-2]
मूलम्
नह्याप्तवादा नभसो निपतन्ति महासुराः ।युक्तिमद्वचनं ग्राह्यं सर्वैरपि परीक्षकैः ॥
मूलम्
सर्वैर्दार्शनिकैः लोके शास्त्रं किञ्चिन्निधीयते ।तत्प्रामाण्ये विवादस्तु वादिनामवशिष्यते ॥
मूलम्
प्रमाणान्तरादृष्टं हि शब्दोऽन्यं प्रापयेत्सदा ।स्मृतिवच्च स्वयं तस्य प्रामाण्यं नोपपद्यते ॥
मूलम्
नूनं तत्रानुभूतोऽसावित्याप्तोक्तिनिबन्धना ।बुद्धिस्साक्षाददृष्टेऽपि युक्ताऽर्थे पुरुषोक्तितः ॥
मूलम्
नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्वचित् ।वचसस्सत्यता दृष्टा सर्वशब्देष्वयं विधिः ॥
मूलम्
बुद्धाद्यन्तेवासिनां तु बुद्धाद्यास्सर्ववेदिनः ।तत्प्रणीतानि शास्त्राणि प्रमाणानीति ते विदुः ॥
मूलम्
ईश्वरेणोपदिष्टास्स्युः वेदास्सकलवेदिना ।प्रमाणमाप्तवाक्यत्वादित्याहुः किल तार्किकाः ॥
मूलम्
अपौरुषेया वेदास्स्युः प्रमाणमिति वैदिकाः।दूषणं भूषणं चापि प्रवर्धेते दिनेदिने ॥
मूलम्
अपिचापौरुषेयेषु वेदेषूपनिषत्सु वा ।यदा तात्पर्यभेदास्स्युः किं नित्यागमसंपदा ॥