मूलम्
ब्रह्मापि जगतो हेतुः युक्तिभिः किल साध्यते।प्रधानं जगतो हेतुः प्रसिद्धं ह्यानुमानिकम्॥
मूलम्
श्रोतव्यश्चाथ मन्तव्य इति तर्कसहायताम्।श्रुतिरेव स्वयं प्राह तस्मात्तर्को विशिष्यते॥
मूलम्
केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः।युक्तिहीनविचारे तु धर्महानिः प्रजायते॥
मूलम्
इत्थं बृहस्पतिः प्राह स्मृतितन्त्रे व्यवस्थितिम् ।पूर्वापरानुमानेन लोको युक्तौ प्रतिष्ठितः ॥
मूलम्
अबलाबालगोपालहालिकप्रमुखा अपि ।बुद्ध्यन्ते नियतादर्थादर्थान्तरमसंशयम् ॥
मूलम्
अमुमानापलापे तु प्रत्यक्षादपि दुर्लभा ।लोकयात्रेति लोकास्स्युः चित्रिता इव निश्चलाः ॥
मूलम्
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।अभियोगशतेनापि सोऽन्यथा नोपपद्यते ॥
मूलम्
तस्माद्युक्त्यैव जगतो व्यवहारो व्यवस्थितः ।युक्तिहीनव्यवहृतावुन्मत्त इति गीयते ॥
मूलम्
तस्माददृष्टतत्त्वानां सापराधं बहुच्छलम् ।दर्शनं चापि वचनं नित्यमेवानवस्थितम् ॥
टीका
वा. प.[2-140]
मूलम्
ऋषीणां दर्शनं यच्च तत्त्वे किंचिदवस्थितम् ।न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनम् ॥
मूलम्
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।तत्र नास्ति तलं व्योम्नि न खद्योतो हुताशनः ॥
मूलम्
मधुरं तिक्तरूपेण श्वेतं पीततया तथा ।गृह्णन्ति पित्तदोषेण विषयं भ्रान्तचेतसः ॥
टीका
श्लोक.[520]
मूलम्
तथा वेगेन धावन्तो नाव्यारूढाश्च गच्छतः ।पर्वतादीन्विजानन्ति भ्रमेण भ्रमतश्च तान् ॥
मूलम्
मण्डूकवसयाऽक्ताक्षाः वंशानुरगबुद्धिभिः ।गृह्णन्तीत्यादिविषयः श्लोकवार्तिकविस्तृतः ॥
मूलम्
तस्मात्प्रत्यक्षमप्यर्थं विद्वानीक्षेत युक्तितः ।न दर्शनस्य प्रामाण्यात् दृशयमर्थं प्रकल्पयेत् ॥
टीका
वा. प.[2-143]
मूलम्
इममर्थं भर्तृहरिः वाक्यपद्यां न्यदर्शयत् ।न्यायवार्तिकतात्पर्यटीकाकृद्वचनं यथा ॥
मूलम्
प्रत्यक्षकलितं चार्थं बुभुत्सन्तेऽनुमानतः ।तर्कसिद्धान्तरसिका इति पूर्वैरुदाहृतम् ॥