मूलम्
अथ शास्त्रेण सिद्धोऽर्थो यदि युक्त्या दृढो भवेत् ।एवं स्यात्कृपणश्शब्दः नेष्टोऽसंप्लववादिनाम् ॥
मूलम्
अत्रोदाहरणं स्पष्टमेषोऽप्यर्थो भविष्यति ।वेदान्तसिद्धान्ताक्षेपः तत्त्वटीकानिरूपितः ॥
मूलम्
स्वप्रकाशा मतिः धीत्वात् दृश्यत्वाद्विमतं मृषा ।इत्याद्यैरेव सिद्धेऽर्थे कृतं त्रय्यन्तचिन्तया ॥
मूलम्
ननुचोपासनादीनां सिद्ध्यै तच्चिन्तनं यदि।तच्चेदद्वैतधीसिद्ध्यै वृथा स्यात्तद्विरोधतः॥
मूलम्
फलान्तरार्थं तच्चिन्ता यदीष्येत तथासति।मोक्षप्रधानशास्त्रत्वं गतं शारीरकस्य तत्॥
मूलम्
श्रुतिवाक्यप्रसूता धीर्बाधिका नानुमानिकी।इति शक्यं न वदितुं अदृष्टस्यानपेक्षणात्॥
मूलम्
अनुमानाच्च शब्दाच्च रज्जुसर्पादिविभ्रमे।अविशेषेण बाधो हि दृष्टस्तद्वदिहापिच॥
मूलम्
प्रत्यक्षं शब्दजन्यं तु दुस्साधं चापि निष्फलम्।परोक्षादपि शब्दोत्थाद्बाधसंभवदर्शनात्॥
मूलम्
नचानुमानाशक्तस्य वाक्यमित्यपि युज्यते।सर्वमानान्तरानर्है शास्त्रप्रामाण्यसाधनात्॥
मूलम्
अनेकनियमोपेतवाक्यचिन्ताविधेर्वरम्।लोकदृष्ट्यनुसारेण युक्तिचिन्तेति निर्णयः॥