873 युक्तेः प्रामाण्यम्

मूलम्

एवं वैदिकसिद्धान्तसंप्रदायस्य संग्रहः ।अथ यौक्तिकसिद्धान्तहृदयं संप्रकाश्यते ॥

मूलम्

अभ्यासात्प्रतिभाहेतुः शब्दः सर्वैरपि स्मृतः ।बालानां च तिरश्चां च यथार्थप्रतिपादने ॥

टीका

वा. प.[2-119]

मूलम्

आद्यः करणविन्यासः प्राणस्योर्ध्वं समीरणम्।स्थानानामभिघातश्च न विना शब्दाभावनम्॥

मूलम्

प्रमाणत्वेन तां लोकः सर्वः समुपगच्छति।व्यवहाराः प्रवर्तन्ते तिरश्चामपि तद्वशात्॥

मूलम्

स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलः कथम्।जन्त्वादयः कुलायादेः करणे शिक्षिताः कथम्॥

मूलम्

आहारप्रीतिविद्वेषष्लवनादिक्रियासु कः।जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम्॥

मूलम्

इतिहि प्रतिभावादिवार्ताक्षौदुम्बरायणाः ।प्रतिभायासु माहात्म्यं वर्णयन्तीति विश्रुतम् ॥

मूलम्

वाक्यपद्यामपि विधिविवेके चाभिसूचितम् ।हरिणा मण्डनेनापि सर्वसारार्थदृश्वना ॥

मूलम्

तस्मासर्वोऽभ्युपगमः प्रतिभामूल इष्यते ।न शब्दः प्रतिभाहेतुः स्वातन्त्र्यमुपगच्छति ॥

मूलम्

शास्त्राणां चापि तात्पर्यनिर्णयोऽभ्यासमूलकः ।तस्माद्यौक्तिक एवार्थः स्थातश्शब्दमूर्धनि ॥

टीका

न्याय. म.[589]

मूलम्

शब्दपृष्ठस्थितन्यायसहस्राधिक्रियात्मके ।शास्त्रेऽपि न्यायलभ्योऽर्थः शास्त्रसिद्ध इतीष्यते ॥