मूलम्
अत्रोच्यते संप्रदायो नाम सर्वगुरुर्महान्।परंपरासमायातोपदेशस्सोऽभिधीयते॥
मूलम्
आम्नाय इत्यादिशब्दाः तत्पर्यायाः प्रकीर्तिताः।सत्संप्रदायरहितशास्त्रैरर्थस्य निर्णयः॥
मूलम्
दुष्करः तत्सदाचार्यसंप्रदायपरिग्रहः।शास्त्रमूलस्संप्रदायश्शास्त्राननुमतोऽपिवा।भ्रमादिसंभावनया बाह्यतुल्यो मतो बुधैः॥
मूलम्
स च सन्नित्यसंश्चेति द्विविधः प्रथमोऽत्र नः।द्वितीयस्तु परेषां स्यात् नियमो हेतुदर्शनात्॥
मूलम्
अधर्मेन्द्रियदोषाभ्यां दुस्तर्काभ्यासतोऽपिवा।दुर्व्याप्तेरनुसन्धानाद्विप्रलम्भकवाक्यतः॥
मूलम्
तत्त्वाग्रहेण साहितात् अतत्त्वग्रहसम्भवः।स एव संप्रदायश्चेत् असंत्स्यादिति न क्रमः॥
मूलम्
परेषामथ सिद्धान्ते हेतुदर्शनमुच्यते।अनन्यगातिकाः स्वैररसिका जीविकार्थिनः॥
मूलम्
तथा पाषण्डिसंसर्गाः कुतर्काभ्यासिनोऽलसाः।एवमादिप्रसिद्धास्ते सूरिभिः प्रकटीकृताः॥
मूलम्
हेतवोऽन्यथासिद्धाः वीक्ष्यन्तां तन्त्रवार्तिके।प्रतिमाजल्पनं शाखाभङ्गः पाषाणपाटनम् ॥
टीका
तन्त्र.[104]
मूलम्
इत्यादिभिः कुत्सिताभिः सिद्धिभिर्वञ्चिताः परे ।हेतुदर्शनशून्या ये ते सन्त्येव महाजनाः ॥
मूलम्
न महत्ता देशतो वा कालतो वापि शक्तितः ।आकारतो वा संख्यातः नान्यस्मादपि कारणात् ॥
मूलम्
एवं विशेषं पश्यन्तः तुष्यन्तस्सन्ति वैदिकाः ।