मूलम्
ननु सर्वत्र सिद्धान्ते प्रायेण व्यवहारतः।लाघवन्यायसहितात्पदार्थपरिशुद्धयः॥
मूलम्
स एव लाघवन्यायः लौकिकस्सर्वसम्मतः।पश्चादयोऽप्यार्जवेन धावन्ति ग्रासतत्पराः॥
मूलम्
एकमात्रालाघवेन पुत्रोत्सवसुखं बुधाः।मन्यन्त इति सिद्धान्तः वैयाकरणसम्मतः॥
मूलम्
तथा लाघवतर्कानुगृहीतोः यः प्रवर्तते।विचारस्स हि मीमांसेत्याहुर्वैदिकसूरयः॥
मूलम्
लाघवेनैव तर्केण पदार्थानां व्यवस्थितिम्।निरूपयन्ति धीमन्तः तार्किका अपि यौक्तिकाः॥
मूलम्
सैषा लाघवबुद्धिस्तु वासनामनुवर्तते।वासना नाम संस्कारः स दृढो यत्र यादृशः॥
मूलम्
तादृशस्तत्र फलति नहि निम्बो मधुद्रवः।तस्माद्वासनया वस्तुसिद्धिर्बौद्धेति सिध्यति॥