मूलम्
ततस्तर्काप्रतिष्ठानादित्यप्याह स्वयं स्फुटम्।युक्तिस्त्वनिर्णीतवलाबलेति न्यायवित्तमाः॥
टीका
ब्र. सू.[2-1-10]
मूलम्
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः।अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते॥
टीका
बृ. उ.[4-4]
मूलम्
बहुकृत्वोऽपि वस्त्वात्मा युक्त्यैव परिनिश्चितः।देशकालादिभेदेन ज्ञायते पुनरन्यथा॥
टीका
स्मृतिचन्द्रिका.[ ]
मूलम्
वेदशास्त्रविरोधी च तर्कश्चक्षुरपश्यताम्।रूपमात्राद्धि वाक्यार्थः केवलान्नावतिष्ठते॥
टीका
वा. प.[1-137]
मूलम्
वाक्यात्प्रकरणादर्थादीचित्याद्देशकालतः।शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात्॥
टीका
वा. प.[2-316]
मूलम्
शब्दानामेव सा शक्तिः तर्को यः पुरुषाश्रयः।स शब्दानुगतो न्यायोऽनागमो ह्यनिबन्धनः॥
टीका
वा. प.[1-139]
मूलम्
इति भर्तृहरि प्राह वाक्यपद्यां विचक्षणः।श्रुत्यर्थस्यानुकूलो यः स न्यायस्तदभीप्सितः॥
मूलम्
तस्माच्छब्दः तर्कनिघ्न इति नैवावधारयेत्।तात्पर्यनिर्णयार्थो यस्तर्कोऽसौ शब्दलक्षणः॥
मूलम्
आर्षं धर्मोपदेशं च वेदशास्त्रविरोधिना।यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः॥
टीका
मनु.[12-106]
मूलम्
वाच्यर्था निहितास्सर्वे वाङ्मूला वाग्विनिस्सृता।तां तु यस्स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः॥
टीका
मनु.[4-256]
मूलम्
तस्माद्विरोधे धर्मस्य निश्चित्य गुरुलाघवम् यतो भूयस्ततो विद्वान् कुर्याद्धर्मविनिर्णयम्॥
टीका
स्मृतिचन्द्रिका.[ ]
मूलम्
मनुव्यासप्रभृतयः क्रमादेवं वचोऽब्रुवन्।दुस्तर्को दूरतस्याज्यः विपरीतार्थबुद्धिकृत्॥
मूलम्
तस्माद्विरूद्धसंस्कारशिक्षितानां परस्परम्।विवादो नहि विश्राम्येद्युगानामथुतैरपि॥
मूलम्
अतो विरुद्धसंस्कारोपरोधायैव भावना।संप्रदायानुरोधेनाभ्यसनीयेति देशना॥
मूलम्
यावद्यावद्विवादाय मुक्तकं दीयते मनः।अनवस्थादिदोषेण तावत्तावद्विहन्यते॥
टीका
न्या.सु.[350]
मूलम्
अतएवाग्रहाविष्टाः सहसा नोपदेशतः।स्वमतं न त्यजन्तीति संशयः प्राक्प्रदर्यते॥
मूलम्
संदिग्धास्ते तु सुकराः परिवर्तयितुं नराः।इत्येवं रूढसंस्कारः शिथिलीक्रियते बुधैः॥