मूलम्
एतदेव वचः प्रोचुः पूर्वे पूर्वेभ्य इत्यपि ।ब्रह्मणो श्रूयते चैवं तथैवोपनिषत्स्वपि ॥
टीका
तै. ब्रा.[3-12-9]
मूलम्
अवरेण नरेणैष प्रोक्तो ज्ञातुं न शक्यते ।अनन्यप्रोक्त एतस्मिन्गतिर्नास्त्यन्यतो यतः ॥
टीका
कठोप.[2-8]
मूलम्
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥
टीका
कठोप.[6-12]
मूलम्
अस्तीत्येवोपलब्धव्यः तत्त्वभावेन चोभयोः ।अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥
मूलम्
एषा तर्केण न मतिरापनेयेति ताब्रवीत्।मृत्युः कठोपनिषदि शिष्याय नचिकेतसे॥
टीका
कठोप.[2-9]
मूलम्
इति शुश्रुम पूर्वेषां ये नस्तद्यव्याचचक्षिरे।इत्थं तलवकारीयैः श्रूयते चापि वाजिभिः॥
टीका
केनोप.[4]
मूलम्
चोदनालक्षणं धर्मं जैमिनिस्तदसूत्रयत्।ब्रह्मापि शास्त्रयोनीति ह्यब्रवीद्बादरायणः॥
टीका
ब्र. सू.[1-1-3]