868 निदानम्

मूलम्

अथेदानीमुक्तियुक्तयोः बलाबलविचिन्तना।केचिदुक्त्येकशरणाः केचिद्युक्त्येकसंश्रयाः॥

मूलम्

ये पूर्वोत्तरमीमांसानिष्णाताः श्रुतिसंश्रयाः।शास्त्रानुकूलां युक्तिं ते मानमिच्छन्ति नान्यथा॥

मूलम्

ये तु वैशेषिकास्सांख्याः नैयायिकमुखाः परे।सर्वे ते युक्तिशरणाः युक्त्यधीनागमान्विताः॥

टीका

वा. प.[1-123]

मूलम्

उभयेषामपि मतं तत्तदुक्त्या प्रकाश्यते।तत्त्वं ततश्चोक्तियुक्तयोः स्पष्टमत्र भविष्यति॥

टीका

वा. प.[2-149]

मूलम्

चतुर्विधास्ते सुगताः दिक्षु तादृक्षु निष्ठिताः।ऊर्ध्वायां दिशि चार्वाकः सर्वेऽप्यन्तरवस्थिताः ॥

मूलम्

तत्र प्रत्यवतिष्ठन्ते ये त्वेकदिशि संस्थितान् ।समाक्रान्ता भविष्यन्ति ते ह्यन्यदिगवस्थितैः ॥

मूलम्

नहि शक्यं सङ्घयितुं पञ्जरान्तरवस्थितिः ।केवलं युक्तिचातुर्यैरित्येके श्रुतिमाश्रिताः ॥