867 निर्विकल्पकविषयसमर्थनम्

मूलम्

विशेषमात्रविषयनिर्विकल्पकपद्धतौ।सामान्यमात्रविषयविदामाक्षेपसंग्रहः॥

टीका

शतदू.[11 भ]

मूलम्

विचित्रवासनासिद्ध्यै विशेषोपगमो वृथा।विशेषाणां वासनासु हेतुताया असंभवात्॥

मूलम्

तथात्वे शुक्तिरजतवासनादेरसंभवः।तत्तद्विंषयविज्ञप्तिप्रवाहो हेतुरिष्यते॥

मूलम्

आपणे सत्यरजतं यद्यप्यस्ति तथापि हि।मिथ्यार्थज्ञानहेतुत्वं वासनासूररीकृतम्॥

मूलम्

पूर्वपूर्वभ्रमोपात्तैस्संस्कारैर्विधिरिह।विकल्पवैचित्र्यसिद्धौ किं दृष्टैः कल्पितैश्च किम्॥

मूलम्

अतो विकल्पविषयाः विचित्रा न स्वलक्षणाः।कल्पने वा लाघवाय विचित्राद्वैतमिष्यताम्॥

मूलम्

नचानेकस्वभावत्वमेकस्यात्र विरोधकृत्।रूपगन्धरसस्पर्शस्वभावाद्यणुवादिनाम्॥

मूलम्

तस्माच्छुद्धं विचित्रं वाऽद्वैतं स्यात्तत्र गोचरः।विस्तरश्शतदूषण्यां वाद एकादशो कृतः॥