866 विरोधाभाववर्णना

मूलम्

अथ प्रकारान्तरेण विरोधाविनिवारणा।असन्निकृष्टविज्ञानं शब्दविज्ञानतश्च यत्॥

मूलम्

तच्छास्त्रमित्यौपवर्षं लक्षमं शबरोदितम्।असन्निकृष्टवाचा च द्वयमत्र जिहासितम्॥

मूलम्

ताद्रूप्येण परिच्छित्तिस्तद्विपर्यतोऽपिवा।इति कौमारिलव्याख्या पठ्यते श्लोकवार्तिके॥

टीका

श्लोक.[362]

मूलम्

तद्विरोधात्सानुशयैः अन्यथा प्रोच्यते यथा।प्रत्यक्षादिविरोधे हि बलीयश्शास्त्रमिष्यते॥

मूलम्

न विरोधं प्रपश्यामोऽध्यक्षं सन्मात्रगोचरम्।भेदे किंचिन्न प्रमाणं नैपुण्येन निरूपणे॥

मूलम्

घटोऽस्तीतिपटोऽस्तीतिप्रतीतिव्यवहारयोः।अस्तित्वमध्यक्षभास्यं भ्रान्तिभास्यं घटादिकम्॥

मूलम्

अस्तित्वमेव सामान्यं घटादिर्भेदलक्षणः।भिन्नकालज्ञानफलौ व्यवहारौ तयोर्मतौ॥

मूलम्

शास्त्रं निषेधरूपेण तन्मात्रे पर्यवस्यति।नातः प्राप्तार्थत्वमूलमानर्थक्यं प्रसज्यते॥

मूलम्

इत्यस्य विस्तरः प्रायश्श्रीभाष्यादावनूदितः।स निर्विकल्पैकमानवादसिद्धान्तवर्त्मगः ॥