मूलम्
अथ प्रपञ्चनिथ्यात्ववाद्यविद्याविदां मते।प्राबल्यरीतिरेषोक्ता निर्विशेषपरश्रुतेः॥
मूलम्
दोषमूलप्रसूतत्वादन्यथासिद्धिसंभवात्।भेदावलम्बादध्यक्षं शास्त्रबाध्यमितीर्यते॥
मूलम्
तत्र दोषोऽनादिभेदवासनेति विनिर्मयः।निषेद्धृशास्त्रप्रमाण्यमन्यथानोपपद्यते॥
मूलम्
अनादिनिधनाच्छिन्नसंप्रदायसमागतम्।संभावनानर्हदोषगन्धं शास्त्रं प्रतीयते॥
मूलम्
ज्योतिष्टोमेनेतिशास्त्रं यत्तु भेदावलम्बि तत्।बाध्यते मोक्षशास्त्रेण परेणापच्छिदानयात्॥
मूलम्
मोक्षशास्त्रेऽपि सगुणब्रह्मणो बोधकं तु यत्।बाध्यते निर्गुणपरशास्त्रेणापि परेण तत्॥
टीका
श्रीभा. महापूर्वपक्षः[ ]