मूलम्
प्रत्यक्षा द्वैतसिद्धान्तेऽध्यक्षप्राबल्यवर्णनाम्।हसन्ति लौकिका यस्मात्स्वयं स्वकुचमर्दनम्॥
मूलम्
सर्वेष्वपि प्रामाणेषु नूनमाभाससंभवः।तस्य मूलं त करणदोष इत्यपि निर्णयः।
मूलम्
तद्विज्ञानं तु बाधादिनिबनिधमति स्थितम्।क्वचित्स्वासिको बाधः कुत्रचिद्यौक्तिको मतः॥
मूलम्
प्रथमशुक्तिरूप्यादौ ज्वलाभेदे त्वनन्दरः।प्रायशो विभ्रमा एते सर्वेषामात्मसाक्षिकाः॥
मूलम्
शुक्तिकारजतभ्रान्तिः मृतृष्णाभ्रमस्तथा।पीथश्शङ्खः द्वौ च चन्द्रौ स्थाणुः पुरुष इत्यपि॥
मूलम्
अयो दहति वक्त्रं च मलितं स्फुटिकोऽरुणः।स्वप्नो माया च गन्धर्वनगरं चेति विभ्रमाः॥
मूलम्
देहात्मविभ्रमाः खे च तलमालिन्यविभ्रमः।रवीन्दुमण्डलादौ च ख्यातः प्रादेशिकभ्रमः॥
मूलम्
प्रत्यक्षिकभ्रमा एते एवं मानान्तरेष्वपि।परीक्षकाणां विदिताः तत्रैव निर्णयक्रमः॥
मूलम्
इन्द्रियेण यथा ज्ञानं तथा लिङ्गादिना सदा।ज्ञानमुत्पद्यते पुंसां न विशेषोऽत्र कश्चन॥
मूलम्
निमित्तशिल्पमन्त्रायुर्ज्योतिस्स्वप्नहृदादिषु।अन्वयव्यतिरेकादेरगभ्ये विषये बुधाः॥
मूलम्
संवाददर्शनात्प्रायः विषये पारलौकिके।अतिशङ्कां न कुर्वन्ति श्रद्दधानाः श्रुतिस्मृतीः॥
मूलम्
असत्यपि परे लोके त्याज्यं कर्माशुभं विदुः । यदि न स्यात्तदा किं स्यादस्ति चेन्नास्तिको हतः ॥
टीका
तत्त्वचिन्ता. मङ्गलवादः[ ]
मूलम्
यादृच्छिकश्चेत् संवादः क्वचिद्बाधादिदर्शनात् । प्रत्यक्षेपि तथा ज्ञातुं शक्यते युक्तिचिन्तकैः ॥
मूलम्
तस्याप्यप्रामाण्यपक्षे व्यवहारो विलीयते।सर्वत्र भ्रान्तिक्लृप्तिश्चेत्कल्पको न विशिष्यते॥
मूलम्
प्रत्यक्षमनुमानं च यथा मानं तथाऽऽगमः।उपजीव्यविरोधेन ज्येष्ठं ताभ्यां न हन्यते॥
मूलम्
तत्र यत्सावकाशत्वात् अन्यथासिद्धिमश्नुते। तद्दुर्बलं स्यान्निरवकाशं तु प्रबलं मतम्॥
मूलम्
अनन्यथासिद्धमेतत्,अवकाशस्त्वसौ मतः।विषयान्तरलाभाख्यः क्वचित्स्यात्पदहोमवत्॥
मूलम्
अथाप्रमाणकोट्यन्तर्भावः रज्जूरगादिषु।अवं प्रायेण विश्वस्य सत्यतावादिनो विदुः॥