863 केवलनिर्विकल्पकप्राबल्यम्

मूलम्

इति प्रत्यक्षसिद्धान्तेऽध्यक्षप्राबल्यनिर्मयः।ये पुनः कल्पनापोढनिर्विकल्पैकवादिनः॥

मूलम्

तेषां तु निर्विकल्पस्य प्राबल्यं पूर्ववन्मतम्।तत्साधनं लिङ्गेन निश्चयेनेतत्यनूदितम्॥

टीका

न्या. कु.[1 स्त.]

मूलम्

निर्विकल्पस्य विषयः स्वलक्षणमितीरितम्।शब्दलिङ्गेन्द्रियभवः विकल्पः दुर्बलो मतः॥

मूलम्

निर्विकल्पस्य विषयं सन्मात्रं ये विदुर्बुधाः।शब्दादप्यस्य चोत्पत्तिः निर्बाधामुपयन्ति॥