मूलम्
प्रमाणानां विरोधो हि मिथस्संपरिदृश्यते।प्रत्यक्षयोरागमयोः तथाचैवानुमानयोः॥
मूलम्
प्रत्यक्षागमयोश्चापि तथाऽध्यक्षानुमानयोः।तथाऽनुमानागमयोः अन्यत्राप्येवमूह्यताम्॥
मूलम्
तत्र प्राबल्यदौर्बल्याचिन्तेत्थं तीर्थकृन्मता।तत्र प्रत्यक्षैकमानवादिसिद्धान्तसंग्रहः॥
मूलम्
प्रत्यक्षं हि प्रमाणानां प्रथमं सर्वसम्मतम्।तत्रापि दुष्टकरणमूलं नार्हति मानताम्॥
मूलम्
यादृच्छिकात्तु संवादाल्लिङ्गादौ मानताभ्रमः।वस्तुतस्तादृशी बुद्धिः प्रत्यक्षेऽन्तर्भावत्यपि॥
मूलम्
औषधायस्सूर्यचन्द्रकान्तादिन्यायतोऽखिलः।विषघ्नमन्त्रादिफलसंवाद इष्यते॥
मूलम्
प्रत्यक्षं तदधीनं चाप्यन्वयव्यतिरेकयोः।दर्शनं चावलम्ब्योत्थं शास्त्रं लौकायतं मतम्॥
मूलम्
लोकसिद्धानुमानादौ क्वचित्प्रमाण्यमिष्यते।नैतावताऽतीन्द्रियाणामर्थानां सिद्धिसंभवः॥
मूलम्
नीतिशास्त्रं स्तेयशास्त्रं कामशास्त्रं च तादृशम्।समन्वेत्यत्र सिद्धान्ते प्रत्यक्षैकावलम्बिनि॥
मूलम्
नैवार्हतीदं प्रत्यक्षं बाधं केनापि हेतुना।प्रत्यक्षेण पुनर्बाधः प्रस्फुटस्सर्वसंविदाम्॥