मूलम्
ज्ञानानां कर्मशब्देन ज्ञानशब्देन कर्मणाम्।प्रयोगस्य व्यक्तिकरः प्रायेणाभेदगोचरः॥
मूलम्
प्रचोदयाद्धिय इति धीशब्दः कर्मवाचकः।जातवेदाश्चेति वेदशब्दः कर्मर्थको मतः॥
टीका
पाणिनि.[4-4-34]
मूलम्
जानात्यर्थः करोतिश्च सूत्रितश्शब्ददर्दुरे।गत्यार्थाश्चापि बुद्ध्यर्था इति न्यायोऽपि सम्मतः॥
मूलम्
योऽश्वमेधेन यजते य एनं वेद चेत्यपि।समप्रधाननिर्देशस्स्थूलसूक्ष्मनिबन्धनः॥
मूलम्
तं समन्वारभेते द्वे ये विद्याकर्मणी इति।वेदान्तवादोऽप्यत्रैव संधिमिच्छति तत्त्वतः॥
मूलम्
प्राकाट्यं व्यवहारो वा संवित्तिर्विषयस्य वा।तथाऽऽवरणभङ्गो वा ज्ञानस्य फलमुच्यते॥
मूलम्
तथाच तदवच्छिन्नव्यापारो धातुबोधितः।ततश्च पाकादितुल्यं ज्ञानं स्यात्सर्वसंमतम्॥
मूलम्
वाचिकैः पक्षिमृगता मानसैरन्त्यजातिताम्।शरिरजैः कर्मदोषैः याति स्थावरतां नरः॥
टीका
मनु.[12-9]
मूलम्
इत्यत्र मानसं कर्म ज्ञानं हि मनुनोदितम्।उपासनात्मके कर्मणीति च क्वचिदुच्यते॥
टीका
श्रीभा.[ ]