मूलम्
आत्मनः परिणामोऽयं ज्ञानमित्याह जैमिनिः।आत्मनः स्त्रवणं ज्ञानमित्यर्हत्प्रमुखा विदुः॥
टीका
ब्र. सू.[4-4-5]
मूलम्
अन्तःकरणवृत्तिस्स्यादिति कापिलपद्धतिः।आत्मनोनुऽभवो नाम तस्य स्फुरणमुच्यते॥
मूलम्
स्फुरणं स्फुरतो धर्मः नित्यो वह्न्युज्ज्वलत्ववत्।तमेव मार्गं प्रायेण द्वैताद्वैतविदो विदुः॥
मूलम्
आत्मनो धर्मभूतं च नित्यं द्रव्यान्तरं स्थितम्।तस्य च प्रसरः ज्ञानं विशिष्टाद्वैतसम्मतम्॥
मूलम्
बुद्धिनित्यत्ववादश्च योऽसौ शाबरसंमतः।स पर्यवस्यत्रेति प्रायो मीमांसका विदुः॥
मूलम्
ज्ञानं विषयभेदेन भिन्नं व्यापारलक्षणम्।तस्याश्रयो बुद्धिरेका नित्येति च समर्थिता॥
मूलम्
सा च प्रमात्रात्मिकेति न्यायरत्नाकरोदिता।यदि बु्द्धिः प्रमातृस्था शक्तिरेकेति कथ्यते॥
मूलम्
तादाम्यानभ्युपगमे विशिष्टाद्वैतनिर्णयः।अत्यन्ताभेदपक्षे तु स्यादद्वैतविनिर्णयः॥
मूलम्
तादात्म्यपक्षः भाट्टेष्टः शक्तिशक्तिमतारेपि।सच भर्तृप्रपञ्चेष्टो वादस्स्यादिति निर्णयः॥
मूलम्
एवं स्थिते विनाशं चाप्युद्भवं च निरन्वयम्।आदुर्ये न्यायनिपुणाः ते ज्ञानं गुणमब्रवन्॥
मूलम्
न तेन कश्चिद्विकृतिरात्मनामिति मेनिरे।अन्ये कर्मापि विकृतिर्न स्यादिति विदुर्बुधाः॥
मूलम्
अतो भूतपरिस्पन्दं भूतचैतन्यवादिनः।ज्ञानधातुं विजानन्ति स स्पन्दः पारिणामिकः॥