मूलम्
अत्र तत्त्वमिदं बोध्यमधिकारनिरूपणे।अधिकारनिषेधोऽयं न स्भावनिबन्धनः॥
मूलम्
आचार्यानुग्रहाभावमूलशास्त्रनिबन्दनः।इति प्राहुर्महाचार्याः पाराशर्यजये स्फुटम्॥
मूलम्
मानं रहस्याम्नायस्थं असूयायाः परस्परम्।प्रादुर्भावप्रकरणं इति तत्त्वविदां मतम्॥
टीका
भ. गी. भा. व्या[18-44]
मूलम्
तस्मिन् प्रकरणे सर्वाधिकारं ज्ञानमुच्यते।ज्ञानपर्युत्थानकर्मा शूद्र इत्यंशदर्शनात्॥
मूलम्
न पर्युत्थास्याम इति यदाऽवोचन्नसूयया।न वो वक्ष्याम इतिच ब्रह्मणा अपिचाब्रवन्॥
मूलम्
पर्युत्थानं हि शुश्रूषा तत्तस्मादाभ्यसूयकम्।दूरीकरणमित्येवं रहस्यं प्रकटीकृतम्॥
मूलम्
अधिकारविचारोऽयं गम्भीरोऽपि निरूपितः।सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु॥