855 स्त्रीणामधिकारः

मूलम्

स्त्रीणां निर्वाणदीक्षा च स्थापिता जैनपण्डितैः।तथा मोक्षाधिकारश्च प्रयासेन समर्थितः॥

टीका

प्र. त.[166]

मूलम्

स्त्रीणां च ब्रह्मविद्यां वेदाचार्येण बोधितः।अधिकारश्श्रुतो ब्रह्मवादिनीनां क्वचित्क्वचित्॥

मूलम्

स्त्रीणां तु पारिव्रज्यायामधिकारो निरूपितः।बोधायनेनेति पुनः मस्करी प्राह धर्मवित्॥

टीका

गौतमधर्म. मस्करी[ ]

मूलम्

स्त्रीणां तथैव शूद्राणां दीक्षा आगमबोधिताः।तथाच सर्वे सर्वानुग्रहणैकधियो बुधाः॥