मूलम्
अथान्ये ब्रह्मविद्यायां सर्वेषां मोक्षसाधने।अधिकारं विदुर्धीराः तद्विशेषव्यवस्थया॥
टीका
स. सि.[2-42]
मूलम्
ब्रह्मविद्या द्विधा भक्तिः प्रपत्तिश्चेति शास्त्रतः।आद्यायामधिकारस्तु यज्ञदानाद्युपस्कृतः॥
मूलम्
अपात्याश्रम्णां सर्वाश्रम्णां च द्विजन्मनाम्।अत्याश्रमी नग्रचर्यो बाह्य इत्येव तन्मतम्॥
मूलम्
आनुकूल्याद्युपाकृता प्रपत्तिर्या त्वनन्तरा।तस्यां हि प्राणिमात्रस्य स्यादसाविति निर्णयः॥
मूलम्
मां हि पार्थ व्यापाश्रित्य येऽपि स्युः पापयोनयः।स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥
टीका
भ. गी.[9 माध्यायः]
मूलम्
अपिचेच्सुदुराचारो भजते मामानन्यभाक्।साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः॥
मूलम्
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥
मूलम्
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यापाश्रयः।मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥
टीका
भ. गी.[18-56]
मूलम्
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।भक्त्या परमया वापि प्रपत्त्या वा महामुने॥
मूलम्
प्राप्योऽहं नान्यथा प्राप्यो मम कैंकर्य लिप्सुभिः।इत्याह भगवाने साक्षात्सर्वस्य शरणं सुहृत्॥
मूलम्
प्रपत्त्या भजमानास्तु यादृशास्तादृशा अपि।भगवान् सर्वपापेभ्यो मोक्षयिष्यत्यसंशयम्॥
मूलम्
भक्तिमार्गोऽपि सर्वेषां यद्यपि श्रूयते तथा।विशिष्टदेहावच्छिन्नप्रारम्भोऽसौ न दुष्यति॥
मूलम्
धर्मव्याघादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते।वर्णावरत्वे संप्राप्तास्संसिद्धिमिति निर्णयः॥
मूलम्
शूद्रार्चनादिप्रसङ्गे श्रीकृष्णमुनिभिः पुनः।उक्तैषा प्रतिबन्दीति वेदान्तार्यैरुदाहृतम्॥
टीका
पाञ्चरात्ररक्षा[ ]
मूलम्
हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः।निर्वाहः क्रियते तद्वत् शास्त्रस्यापि नान्यथा॥