853 स्वतन्त्रसिद्धान्तः

मूलम्

इत्येवं मतभेदे च स्थिते केचिद्विपश्चितः।स्वातन्त्रेण विचार्येत्थमुल्लिखन्ति सिराग्रहाः॥

मूलम्

छान्दोग्योपनिषन्निष्ठाः ये चैकाश्रम्यवादिनः।गृहस्थ एव विद्यायामधिकारिति तन्मतम्॥

टीका

छान्दो.[8-15]

मूलम्

ये वाज्युपनिषनिष्ठाः ते तु संन्यासिलक्षणः।ब्रह्मणस्सोऽधिकारिति यथाश्रुत्याऽभिमेनिरे॥

टीका

बृ. उ.[5-5]

मूलम्

इतरेषु प्रबन्धेषु परस्परविनिन्दया।सर्वोषामधिकारोऽपि ज्ञायते तत्रतत्र हि॥

मूलम्

ज्ञानकर्मविवादोऽयं जगतस्सदसत्त्वतः।दृष्टिमूलः यतो बन्धोऽप्यास्ते सदसदात्मकः॥