मूलम्
सर्वाश्रमपरित्यागो ब्राह्मण्यमिति केचन।नग्नचर्येषु संवर्तदुर्वासःप्रभृतिष्वपि॥
मूलम्
विद्यासंदर्शनात्सर्वाश्रमिष्वत्याश्रमिष्यति।अधिकारं विदुर्ब्रह्मविद्यायास्तत्र च स्मृतिः॥
टीका
ब्र. सू. शं.[3-4-50]
मूलम्
यं न सन्तं नवा सन्तं नाश्रुतं न बहुश्रुतम्।न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्रह्मणः॥
मूलम्
गूढधर्माश्रितो विद्वानज्ञानचरितं चरत्।अन्धवज्जडवच्चैव मूकवच्च महीं चरेत्॥