मूलम्
एवं संन्यासाश्रमोऽपि पापभेदविनाशकृत्।चित्तशुद्धिमुखात्कैश्चिद्विद्यायामङ्गमिष्यते॥
मूलम्
जनकप्रमुख ये तु विद्यावन्त इति श्रुताः।तेषां प्राग्जन्मसंन्यासाद्विद्यावाप्तिं विदुर्हि ते॥
मूलम्
इच्छन्ति केचिच्छ्रवणाद्याधिकारिविशेषणम्।संन्यासमित्यतो विद्यासाधनत्वेन स श्रुतः॥
मूलम्
अनन्यव्यापारतया श्रवणाद्यनुतिष्ठतः।दृष्टद्वारैव विद्यामस्याङ्गत्वं विदु परे॥
मूलम्
संन्यस्य श्रवणं कुर्यादित्येष नियमे विधिः।यतश्च श्रवणाद्यर्हः कर्मच्छिद्रेषु गृह्यपि॥
मूलम्
द्विजानामविशेषेण संन्यासः श्रूयते ततः।श्रवणं निर्निरोधं स्यात् अत्र क्षत्रियवैश्ययोः॥
मूलम्
केचित्तु ब्रह्मणस्यैव संन्यासाश्रमशास्त्रतः।विट्शूद्रयोस्तु श्रवणं तदनङ्गं प्रचक्षते॥
मूलम्
अन्ये संन्यासिनां मुख्यमधिकारं प्रचक्षते।इतरेषां तु गैणं तं क्रमिकं विधुरादिवत्॥