मूलम्
अथापि केचिद्विबुधा धीरोदारा भवन्ति ये॥
मूलम्
निर्गुणब्रह्मविद्यायां शूद्राणामपि ते स्फुटम्।स्ववर्णधर्मानुष्ठानादधिकारं प्रचक्षते॥
मूलम्
इतिहासपुराणाभ्यामर्थितैतेषु युज्यते।अपित्वध्ययनोपात्तज्ञानमूला निषिध्यते॥
मूलम्
विद्योपत्तिस्तु विमलदेहद्वारा भविष्यति।तस्माच्छूद्रोऽपि विद्यार्थं कर्म कर्तुमिहार्हति॥
टीका
सिद्धान्तलेश.[3 प.]