मूलम्
सर्वेषां तु द्विजातीनां तथैवाश्रमिणामपि।अधिकारं निदुर्धीराः सुरेश्वरमुखः परे॥
टीका
सिद्धान्तलेश.[3 प.]
मूलम्
श्रुतिस्थब्राह्मणपदमुपलक्षणमित्यपि।व्याख्याय चापशूद्राणामधिकारं विदुर्हि ते॥
मूलम्
ज्ञानमात्रे तु सर्वेषामधिकारोऽस्ति यद्यपिय़।संन्यासनिष्ठा विद्यैव मोक्षसाधनमिष्यते॥
मूलम्
यल्लिङ्गं गृहिणां विद्यासंप्रदायादिकर्तृता।न तत् स्थितन्यायबाधं कर्तृमुत्सहते क्वचित्॥
मूलम्
न हि शास्त्रशतेनापि क्वचिद्ध्वान्तप्रकाशयोः।संभवः शक्यते कर्तुं लिङ्गैः किमुत केवलैः॥
मूलम्
इति मुण्डकभाष्यस्थः श्रीशाङ्करविनिर्णयः।अत्र श्रिरामकृष्णार्यवाक्यमेतन्निशम्यताम्॥
टीका
वेदान्तपरिभा. व्या.[ ]
मूलम्
केचित्तु भिक्षवः स्वीयमाश्रमं केवलं पुनः।मोक्षाश्रममिति भ्रान्ताः ख्यातिपूजापारायणः॥
मूलम्
गृहस्थादिकृताष्टाङ्गप्रणमाद्यैश्च केवलम्।आत्मानमधिकंमन्याः तेषु प्रद्वेषमात्रतः॥
मूलम्
तेषां ब्रह्मविचाराधिकारो नास्तीति मन्वते।तथा वसिष्ठजनकरैक्काद्याख्यायिका अपि॥
मूलम्
प्रच्छादयन्तो दृश्यन्ते इत्युक्तिरवलोक्यते।