845 भाट्टसम्प्रदायः

मूलम्

तत्र भाट्टाशयविदां पन्थानः बहुधा स्थिताः।तथाऽप्येकं सूचयामि किंचिद्विस्तरकातरः॥

मूलम्

संसारादुद्विजन्ते ये दृष्टलोकपरावराः।तेषामेवाधिकारस्स्यात् मुक्तिशास्त्रे मनीषिणाम्॥

मूलम्

तेनाभावात्मकत्वेऽपि मुक्तेर्नापुरुषार्थता। सुखदुःखोपभोगोहि संसार इति शब्द्यते॥

मूलम्

तयोरनुपभोगं तु मोक्षं मोक्षविदो विदुः।श्रुतिरप्येवमेवाह भेदं संसारमोक्षयोः॥

मूलम्

न ह वै सशरीरस्य प्रियाप्रियविहीनता।अशरीरं वाव सन्तं स्पृशतो न प्रियाप्रिये॥

मूलम्

सुषुप्तावप्रकाशेन नात्मनस्स्वप्रकाशता।दुःखाभावाद्व्यवहृतिः सुखरूप इति स्थितम्॥

मूलम्

आन्दात्मकमात्मानं ये मदन्ति स्वयंप्रभम्।तन्मतेऽपि च संसारान्मुक्तेरेतावती भिदा॥

मूलम्

आत्मा ह्यनन्दरूपोऽसौ संसारेऽपि प्रकाशते।तावानेव स मोक्षोऽपि नाधिक्यं तस्य किंचन॥

मूलम्

अथ संसारवेलायामानन्दो न प्रकाशते।नह्यप्रकाशनं युक्तं स्वप्रकाशस्य वस्तुनः॥

मूलम्

यद्यसौ न प्रकाशेत किं तर्ह्यन्यत्प्रकाशते।आत्मस्वरूपमितिचेन्ननु चानन्द एव तत्॥

मूलम्

तच्चेत्प्रकाशते नूनमानन्दोऽपि प्रकाशते।तेन शब्दादिविषयजन्योस्सुखदुःखयोः॥

टीका

शास्त्र-मोक्षवादः.[ ]

मूलम्

निवृत्तिरेव संसारादपवर्ग इतीर्यते।सुखदुःखविहीनस्तु मुक्तः स्वस्थोऽवतिष्ठते॥

मूलम्

तस्मान्मोक्षो निरानन्दः दुःखलोपात्पुमार्थता।पार्थसारथिमिश्राणामाहैवं शास्त्रदीपिका॥