843 विरोधपरिहारः

मूलम्

आपाततो विरोधोऽस्ति प्रबन्धे धीमतामपि।परिहाररहस्यं तु तैरेवात्रैव सूचितम्॥

मूलम्

एवं ये युक्तिभिः प्राहुरित्युक्त्या भावगर्भया।अत्रायमाशयः वेदनित्यतास्थापनाय हि॥

मूलम्

अतिवादाः कृता युक्त्या परमार्थोऽन्य एव यः।सच प्रोक्तस्स्फुटः तन्त्रवार्तिके त्विति निर्णयः॥