842 श्लोकवार्तिकाभिप्रायः

मूलम्

इत्थं सिद्धान्तकर्तृणामेतेषां श्लोकवार्तिके। योऽसावभिप्रायभेदः तत्संक्षेपोऽवधार्यताम्॥

मूलम्

आत्मा ज्ञातव्य इत्येतन्मोक्षार्थं नच चोदितम्। कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्षयते॥

टीका

श्लोक.[669]

मूलम्

विज्ञाते चास्य पारार्थ्ये याऽपि नाम फलश्रुतिः। साऽर्थवादो भवेदेव न स्वर्गादेः फलान्तरम्॥

मूलम्

कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम्। फलस्याल्पस्य दानं वा राजपुत्रापराधवत्॥

टीका

श्लोक.[667]

मूलम्

सुखोपभोगरूपश्च यदि मोक्षः प्रसज्यते। स्वर्ग एव भवेदेषः पर्यायेण क्षयी च सः॥

टीका

श्लोक.[670]

मूलम्

नहि कारणवत्किंचिदक्षयित्वेन गम्यते।तस्मात्कर्मक्षयादेव हेत्वभावेन मुच्यते॥

मूलम्

नह्यभावात्मकं मुक्त्वा मोक्षनित्यकारणम्।नच क्रियायाः कस्याश्चिदभावः फलमिष्यते॥

मूलम्

तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये।उत्तरप्रचयाभावाद्देहो नोत्पद्यते पुनः॥

मूलम्

कर्मजन्योरभोगार्थं शरीरं न प्रवर्तते।तदभावे न कश्चिद्धि हेतुस्तत्रावतिष्ठते॥

मूलम्

मोक्षार्थी न प्रवर्तते तत्र काम्यनिशिद्धयोः।नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया॥

मूलम्

प्रार्थ्यमानं फलं ज्ञातम न चानिच्छोर्भविष्यति।आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते॥

मूलम्

सर्गप्रलयविज्ञानं समस्तजगदाश्रयम्।दैवप्रभावज्ञानार्थं धर्मानुष्ठानसिद्धये॥

मूलम्

तत्परत्वेऽप्युपाख्यानेष्वतीव विबुधोत्तमैः।नचैव कार्यस्तत्त्वाभिनिवेश इति निर्णयः॥

टीका

तन्त्र.[16]

मूलम्

तस्मादद्यवदेवात्र सर्गप्रळयकल्पना।समस्तक्षयजन्मभ्यां न सिद्ध्यत्यप्रमाणिका॥

टीका

श्लोक.[673]

मूलम्

सर्वंज्ञवन्निषेध्या च स्रष्टुः सद्भावकल्पना।नच धर्मादृते तस्य भवेल्लोकाद्विशिष्टता॥

मूलम्

नचाननुष्ठितो धर्मः नानुष्ठानमृते मते।नच वेदादृते सा स्यात् वेदो नच पदादिभिः॥

मूलम्

तस्मात्प्रागपि सर्वेऽमी स्रष्टुरासन् पदादयः।स्यात्तत्पूर्वकता चास्य चैतन्यादस्मदादिवत्॥

मूलम्

एवं ये युक्तिभिः प्राहुः तेषां दुर्लभमुत्तरम्।अन्वेष्यो व्यवहारोऽयमनादिर्वेदवादिभिः॥

मूलम्

तथाऽर्थवादाधिकृतौ सर्वोपनिषदामपि।नैराकाङ्क्ष्यं च कण्ठोक्तं क्रत्वर्थात्मोपपदादनात्॥