841 समुच्चयः

मूलम्

न च ज्ञानविधानेन कर्मसंबन्धवारणम्॥

मूलम्

न च तेषां भिन्नं विभिन्न पदवीत्यपि न विकल्पोऽथ बाधो वा नाङ्गाङ्गित्वं मिथोऽथवा॥

मूलम्

संभावनापदं यस्मात् श्रुतिस्स्पष्टोपरुंध्यते।तस्माच्समुच्चयो न्याय्यः प्रामाण्याच्छास्त्रयोर्द्वयोः॥

मूलम्

इत्थमत्र बृहट्टिकावाक्यं राणक उद्धृतम्य।ननु निश्श्रेयसं ज्ञानात् , बन्धहतोरर्न कर्मणः॥

मूलम्

नैकस्मादपि तत्किंतु ज्ञानकर्मसमुच्चयात्।नित्यनामुत्तिकैरेव कुर्वाणो दुरितक्षयम्॥

मूलम्

ज्ञानं च विमलीकुर्वन् अभ्यासेन च पाचयेत्।वैराग्यात्पक्वविज्ञानः कैवल्यं च व्रजेदिति॥

मूलम्

निषिद्धकाम्यकर्मभ्यः सम्यग्व्यावृत्तेचतसः।नित्यनामित्तिकप्रायश्चित्तप्रध्वस्तुदुष्कृतेः॥

मूलम्

सुखदुःखानुभूतिभ्यां क्षीणप्रारब्धकर्मः।ध्यायतः परमात्मानं मुक्तिस्स्यादिति निर्णयः॥