838 तच्च त्रिविधम्

मूलम्

आत्माऽपहतपाप्मेति तथा मन्तव्य इत्यपि।तथाऽऽत्मानमुपासीतेत्यात्मज्ञानं विधीयते॥

मूलम्

जिज्ञासामननोपास्तिभेदेन त्रिविधं त्विदम्।ज्ञायते फलसंबन्धः त्रिविधस्तदपेक्षितः॥