मूलम्
एकविंशतिधा दुःखं शरीरं प्रथमं मतम्।षडिन्द्रियानि विषयाः षट् तथैव च बुद्धयः॥
मूलम्
सुखं दुःखं चेति,तत्र श्रोत्रं नित्यं मनस्तथा।तथापि यादृग्रूपस्य दुःखता ध्वंसते हि तत्॥
मूलम्
दुःखासमानकालीनदुःखध्वंसोऽमृतं मतम्।विशेषणांशे तु तत्त्वसाक्षात्कारः प्रयोजकः॥
मूलम्
तत्र नव्याः दुःखपदं दुःखसाधनतत्परम्।तत्साधनं च दुरितं तद्ध्वंसो ज्ञानसाधनः॥
टीका
दिनकरीयारम्भे.[ ]
मूलम्
इत्याहुः दुःखविध्वंसस्तत्कारणनिबन्धनः।न तत्त्वज्ञानहेतुस्स्यादित्यन्येऽन्यत्र विस्तरः॥