मूलम्
इत्युक्तं दुःखजन्मादेरुत्तरोत्तरनाशतः।अनन्तरापायमार्गादपवर्गसमुद्भवः॥
मूलम्
तत्त्वज्ञानेन मिथ्याधीवासनानाशसंभवः।तन्नाशेन विनश्यन्ति रागादिर्दोषलक्षणः॥
मूलम्
पुण्यापुण्यात्मिका नश्येत्प्रवृत्तिस्तद्विनाशतः।अप्रवृत्तौ नैव जन्म देहसंबन्धलक्षणम्॥
मूलम्
जन्माभावे च दुःखानामनुत्पाद इति स्थितम्।प्रशस्तपादभाष्यस्थसारांशोऽप्यवर्धायताम्॥
मूलम्
फलभिसन्धिरहितज्ञानपूर्वकधर्मतः।विशुद्धे हि कुले जन्म जिज्ञासा दुःखगोचरा॥
मूलम्
ततश्चाचार्योपसतिः ततस्तत्तवविनिर्णयः।मिथ्याज्ञाननिवृत्तेस्तु रागद्वेषविहीनता॥
मूलम्
ततः प्रवृत्त्यनुत्पादः भोगात्संचितसंक्षयः।शरीरपरिखेदश्च सन्तोषसुखमेव च ॥
मूलम्
भोगस्स्यादैकभविकपक्षः प्रायोऽत्र सम्मतः।अनैकभाविके पक्षे वैकल्यं सहकारिणः॥
मूलम्
निवृत्तिलक्षणो धर्मः केवलः परमार्थजात्।दर्शनात्सुखमुत्पाद्य स्वयमेव निवर्तते॥
मूलम्
शरीरादिनिवृत्तौ तु निर्बीजस्यात्मनस्तदा।पुनश्शरीरानुत्पत्तौ दगधेन्धनकृशानुवत्॥
मूलम्
दुःखस्योपशमो मोक्षः स्वयमेव भविष्यति।आत्मा विभुत्वद्रव्यत्वस्वरूपेणावतिष्ठते॥