834 नित्यसुखनिरासः

मूलम्

मोक्षे नित्यसुखं येषां कामं देहेन्द्रियाद्यपि।नित्यं प्रकल्प्यतां तेषां मोक्षो रम्यतरो भवेत्॥

मूलम्

यदत्र किरणावल्यामुक्तं तदवधार्यताम्।सत्त्वशुद्धिमुखात्कर्म स्यादारादुपकारकम्॥

टीका

किर.12[ ]

मूलम्

ज्ञानं तु सन्निपत्योपकारकाङ्गमितीष्यते।तुल्यकक्षतया कर्मज्ञानयोर्न समुच्चयः॥