मूलम्
एवं सर्वमिदं दुःखमिति भावयतोऽनिशम्।सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते॥
मूलम्
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः।क्लेशकर्मप्रहाणादिद्वारो निश्श्रेयसोदयः॥
मूलम्
यावदात्गुणस्सर्वे नोच्छिन्ना वासनादयः।तावदात्यन्तिकी दुःखनिवृत्तिर्नावकल्पते॥
मूलम्
धर्मोधर्मौ निमित्तं हि संभवे सुखदुःखयोः।मूलभूतौ त तावेव स्तम्भौ संसारसद्मनः॥
मूलम्
तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात्।नात्मनस्सुखदुःखो स्त इत्यसौ मुक्त उच्यते॥
मूलम्
अनिष्टोपरमार्थास्स्युपरवर्गप्रवृत्तयः।सन्तः प्रयतमाना हि दृश्यन्ते व्याधिशान्तये॥
मूलम्
चिरज्वरशिरोर्त्यादिव्यधुदुःखेन खेदिताः।सुखिनो वयमद्येति तदपाये प्रयुञ्जते॥