832 दुःखमिश्रं सर्वम्

मूलम्

प्रायः प्रपञ्चितस्सर्वेतरसिद्धान्तसंग्रहः । अथ नैयायिकोक्तीनां संग्रहोऽपि निशम्यताम् ॥

टीका

न्या. म.[507]

मूलम्

न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः । न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥

मूलम्

तत्त्वतश्चिन्त्यमानं हि सर्वं दुःखं विवेकिनः । विषयसंपृक्तमधुमत् सर्वं दुःखीभवत्यदः ॥

मूलम्

सुखाधिगमलोभेन यतमानो हि पूरुषः।सहस्रशाखमाप्नोति दुःखमेव तदर्जने॥