मूलम्
अहं मद्रक्षणभरः मद्रक्षणफलं तथा।न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद्बुधः॥
टीका
न्यासदशकम्.[ ]
मूलम्
न्यस्याम्यकिंचनः श्रीमन् अनुकूलोऽन्यवर्जितः।विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि॥
मूलम्
स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम्।स्वदत्तस्ववधिया स्वार्थं स्वस्मिन्न्यस्सि मां स्वयम्॥
मूलम्
श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः।एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम्॥
मूलम्
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम्।निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम्॥
मूलम्
देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव । नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥
मूलम्
मां मदीयं च निखिलं चेतनाचेतनात्मकम्।स्सकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम्॥
मूलम्
त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर।न प्रवर्तय पापानि प्रवृत्तानि निवर्तय॥
मूलम्
अकृत्यानां च करुणं कृत्यानां वर्जनं च मे।क्षमस्व निखिलं देव प्रणातार्तिहर प्रभो॥
मूलम्
श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम्।अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः॥
मूलम्
वेदान्तदेशिकन्यासदशकं लिखितं न्विदम्।रह्स्यत्रयसारे तु महीयान् न्यासविस्तरः॥