830 अङ्गानि

मूलम्

फलं संगं च कृतृत्वमुरायत्वं च संत्यजेत्।सात्त्विकत्याग एष स्यात् इति श्रीभगवान् जगौ॥

टीका

भ. गी.[18.66]

मूलम्

साङ्गं ससात्त्विकत्यागं कुर्याद्भरसमर्पणम्।अन्यथा विधिकोपास्स्यात् चेतनोऽचेतनो भवेत्॥

मूलम्

सर्वज्ञोऽपि हि विश्वेशस्सदा कारुणिकोऽपि सन्।संसारतन्त्रवाहित्वात् रक्ष्यापेक्षां प्रतीक्षते॥

मूलम्

आनुकूल्यस्य संकल्पः प्रतिकूल्यस्य वर्जनम्।रक्षिष्यतीति विश्वासः गोप्तृत्ववरमं तथा॥

मूलम्

कार्पण्यं चेति पञ्चाङ्गः आत्मनिक्षेप इष्यते।पञ्चानामपिचाङ्गानामिदं विवरणं मतम्॥

मूलम्

चराचराणि भूतामि सर्वाणि भगवद्वपुः।अतः तदानुकूल्यं मे कर्तव्यमिति निश्चयः॥

मूलम्

अन्तःस्थितस्य भगवान् सर्वेषामिति निश्चयात्।सर्वभूतेषु च सदा प्रतिकूल्यं विवर्जयेत्॥

मूलम्

कार्पण्येनाप्युपायानां विनिवृत्तिर्विवक्षिता।रक्षिष्यतीतिविश्वासात् अभीष्टोपायकल्पना॥

मूलम्

गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्। शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत्॥

मूलम्

पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा।प्रपत्तिसंग्रहस्त्वित्थं अनुष्ठानक्रमस्त्वसौ॥