829 विभागः

मूलम्

साधनं भगवत्प्राप्तौ य एवेति स्थिरा मतिः।साध्यभक्तिस्थता चैव प्रपत्तिरितिगीयते॥

मूलम्

उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः।उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी॥

मूलम्

उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी।साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी॥

मूलम्

प्रारब्धकर्मावधिको मोक्ष उक्त उपासितुः।दृप्तस्य देहावधिकः आर्तस्यार्त्यवधिमतः॥

मूलम्

इयं केवललक्ष्मीशोपायत्वप्रार्थनात्मिका।स्वहेतुत्वधियं रुन्धे किंपुनस्सहकारिणाम्॥

टीका

न्या. सि.[2 प.]

मूलम्

शास्त्रार्थज्ञानवेलायामुपायत्वेन निश्चितः।अनुष्ठानदशायां तूपायबुद्धिं परित्यजेत्॥