मूलम्
अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम्।तदेकोपायताच्ञा प्रपत्तिश्शरणागतिः॥
मूलम्
मुनिना भरतेनेत्थं प्रपत्तेर्लक्षणं कृतम्।त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः॥
मूलम्
शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम्।आत्मात्मीयभरं सर्वं स्वात्मानं च समर्पयेत्॥
मूलम्
इत्यादिवचनानां च परामर्शेन देशिकैः।निष्कृष्यात्रायमेषोऽर्थः विशदीक्रियते यथा॥
मूलम्
आकिंचन्यभरन्यासोपायत्वप्रार्थनात्मनाम्।त्रायाणां सौहृदं सूक्ष्मं यः पश्यति स पश्यति॥
मूलम्
मुमुक्षुमात्रसामान्यं स्वरूपादिसमर्पणम्।अकिंचने भरन्यासस्त्वधिकोऽङ्गितया स्थितः॥
मूलम्
अत्र रक्षाभरन्यासस्समस्सर्वफलार्थिनाम्।स्वरूपफलनिक्षेपस्त्वधिको मोक्षकाङ्क्षिणाम्॥
मूलम्
स्वनिर्भरत्वपर्यन्तरक्षकैकार्थ्यभावनम्।त्यक्तरक्षाफलस्वाम्यं रक्ष्यस्यात्मसमर्पणम्॥
मूलम्
भरन्यासप्रधानो यस्सर्वान्वयविवर्जितः।तच्छेषत्वानुसंधानविशेषः शरणागतिः॥