मूलम्
श्रुतिस्मृतीतिहासेषु प्रपत्तिर्नाम विश्रुता।तेषां तु तपसां न्यासमतिरिक्तं ततः श्रुतम्॥
मूलम्
ब्रह्मणे त्वा महस औमित्यात्मानं नियोजयेत्।अहं मुमुक्षुश्शरणं प्रपद्य इति च श्रुतम्॥
टीका
श्वेता.[6-18]
मूलम्
प्रपन्न इन्द्र शरणं सर्वस्य शरणं सुहृत्।इत्यादयः श्रुतिशतं विश्रुतं शरणागतौ॥
टीका
छान्दो.[2-2-23]
मूलम्
स्मृतीतिहासवचनमन्तं प्रथितं विदाम्।अतस्त्रैवर्णिकत्वादेः भावोऽभावोऽपि कस्य चित्॥
टीका
रहस्यत्रयसारः.[ ]
मूलम्
नाधिकारः प्रपत्तौ स्यादीकिंचान्यमनाश्रितः।येषां तु भगवद्गीता प्रमाणमिति सम्मता॥
मूलम्
प्रपत्तिस्साधनं मुक्तेरिति तैरखिलैर्मता।सा परंपरया हेतुरिति सर्वैर्विनिश्चिता॥
मूलम्
साक्षादपि भवेद्धेतुरिति श्रीवैष्णवा विदुः।प्रपत्तिः द्विविधा तस्मात् स्तन्त्राङ्गविभेदतः॥
मूलम्
यद्येन कामकामेन न साध्यं साधनान्तरैः।तेनतेनाप्यते तत्तन्न्यासेनैव महामुने॥
मूलम्
परमात्मा च तेनैव साध्यते पुरुषोत्तमः।भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने॥
मूलम्
प्राप्योऽहं नान्यथा प्राप्यः मम कैङ्कर्यलिप्युभिः।इत्यादिकं वचोऽनन्तं भगवच्छास्त्रविश्रुतम्॥