मूलम्
सर्वात्मैक्यं विदुः केचिद्देनतैक्यं परे विदुः।मूर्तित्रैक्यं कतिचित् साम्यमेके प्रचक्षते॥
टीका
वे. सं.[170]
मूलम्
तेष्वेवान्यतमस्यान्ये विबुधाः परतां विदुः।त्रिमूत्युत्तीर्णपरतावादिनोऽप्यपरे बुधाः॥
मूलम्
स हि व्योमातीवाद इति शास्त्रात्प्रतीयते। तत्स्वरूपं किंचिदत्र प्रसङ्गात्प्रतिपाद्यते॥
मूलम्
उपादानं तु भगवान्निमित्तं तु महेश्वरः।इति व्योमातीतवादः दह्रविद्यानिरूपितः॥
मूलम्
तस्मिन्यदन्तरित्यादौ तच्छब्दो व्योमतत्परः।स चाकाशो नामरूपनिरेवोढा विष्णुरुच्यते॥
टीका
छान्दो.[8-1-1]
मूलम्
तदतीतस्तदन्तस्स्थः स सदाशिव उच्यते।इति वादो निराकारि श्रीभाष्यादिषु सूरिभिः॥
मूलम्
अतएव निमित्तत्वमुपादानत्वमित्यपि।नाराणस्यैवैकस्य श्रुत्याद्येषूपपादितम्॥
मूलम्
वेदान्तवेद्यो भेदो वाऽभेदो वा द्व्यात्मताऽपिवा।कोऽर्थस्समार्थित इति चेत्सर्वं च समर्थितम्॥
मूलम्
सर्वप्रकारं ब्रह्मैवावस्थिं देहिभावतः।अभेदोऽतो रक्षितस्स्स्यात् एवं ब्रह्मैकवस्त्वपि॥
मूलम्
नानात्मचिदचिद्वस्तुप्रकारत्वादनेतधा।अवस्थितमतो भेदाभेदश्चापि समर्थितः॥
मूलम्
चिदचिद्वस्त्वीश्वराणां वैलक्षण्यादसंकरात्।स्वरूपेण स्वभावेन भेदश्चापि समर्थितः॥
मूलम्
वेदार्थसंग्रहे त्वस्य विस्तरः प्रतिपादितः।स व्योमातीतवोदोऽपि तत्रैव सुनिरूपितः॥