मूलम्
अथात्रैवेश्वर वादिविकल्पोऽपि विविच्यते।निर्दैववादो निस्संविद्दैववादः पुरोहितः॥
मूलम्
निरीश्वरो निर्विशेषेश्वरो वेति विकल्पना।कालं ब्रह्म विदुः केचित् स्फोटं ब्रह्म विदुः परे॥
मूलम्
कर्म ब्रह्म विदुः केचित् परेऽथ प्रकृतिं विदुः।प्रतिबिम्बैश्वर्यवादः प्रतिभासेश्वरस्तथा॥
मूलम्
विर्व्यापारेश्वरः कश्चित् तथाऽन्यो निरनुग्रहः।प्रवाहेश्वरवादोऽन्यः नानेश्वर इतीतरः॥
टीका
स. सि.[3-79]
मूलम्
मूर्तित्रयेश्वरः कश्चित् तदन्यतमः इत्यपि।तदुत्तीर्णविवादोऽन्यः शाक्तसौरादिकल्पनी॥
मूलम्
कल्पना काचिदन्योन्यविभिन्नास्त्रय ईश्वराः।ये सत्त्वादिगुणोन्मेषभिदुरेष्वधिकारिणः॥
मूलम्
कल्पेषु ते चक्रनेमिनीत्या निम्नोन्नतश्रियः।एवं बहुविधा वादाः दृश्यन्ते खल्वपीश्वरे॥
मूलम्
द्विलिङ्गो द्विविभूतिश्च विष्णुनारायणो हरिः।श्रीपाञ्चरात्रसिद्धान्ते ह्येष ईश्वरनिर्णयः॥
मूलम्
प्राप्यः परमभागयत्वात् निषव्यः स्वामिभावतः।शक्तिकारण्यभूम्ना च शरण्यस्सीदतां प्रभुः॥
मूलम्
बहिरन्तश्च तद्यव्याप्ति तत्र यत्रोभयं भवेत्। विभोरणोश्च न बहिर्नान्तः तस्मान्न सा तयोः॥
मूलम्
प्रयोजनस्य विहरन्न कर्तेश इति ब्रवन्।तस्य सिद्धावसिद्धौ च व्याघातादिपराहतः॥
मूलम्
निरपेक्षस्वतन्त्रस्य सहकारिमतस्सदा।अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत्॥
मूलम्
तत्तदिच्छाविशेषेण तत्क्रमस्योपपत्तितः।इच्छासंतत्यनादित्वात् न च मूलक्षयः क्वचित्॥